Thursday, August 14, 2014

Narayana Teerthar's tarangams.....

On account of Krishna Ashtami, I am starting to post Narayana Teerthar's Tarangams. I hope it will be useful to people who love these tarangams which is full of sincere prayers to the lord and which describes Lord Krishna's playful acts.

                   श्री नारायण तीर्थध्यान श्लोका:

यदङ्घ्रि पङ्केरुहरेणुलग्नम्
निपीय नीरं विमलान्तरङ्ग:
जानामि तत्वं निजमात्मरूपम्
तं नौमी नारायण तीर्थमार्यम् ।।१।।

यन्नाम्न: पठनं मनागपि यतेरोङ्कारलक्षाधिकम्
यन्मूर्तेरपि पूजनम् हरि हर ब्रह्मादिपूजा स्मृतम्
सत्कार्यों त्रिविधम् समस्त जगताम् शास्त्रार्थनिर्णायकम्
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।२।।

वेदान्तार्थ विचार गम्य धिषणा विध्वस्तभेदाशयम् 
नानातन्त्र पदार्थ संशयघनध्वान्तार्क तुल्यं गुणै:
नानादेशदिगन्तसन्ततयश: प्राप्तावकाशं गुरुम्
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।३।।

बोधा गाध सुनिर्मलाति मधुरे यन्मानसाब्धौ हरि:
क्रीडत्युज्झित दुग्ध सिन्धुरनिशं शान्त्यादिदूतीजनै:
भक्तिज्ञप्तिविरक्ति संज्ञमतुलं कन्यात्रयं प्राप य:
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।४।।

 

Wednesday, August 13, 2014

Ganesh Kavacham


ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्।
द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥१॥
 
विनायकः शिखां पातु परमात्मा परात्परः।
अतिसुन्दरकायस्तु मस्तकं महोत्कटः॥२॥


ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः।
नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥३॥


जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः।
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥४॥


श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः॥५॥


स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥६॥


धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः।
लिंगं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥७॥


गणक्रीडो जानुजंघे ऊरू मङ्गलमूर्तिमान्।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु॥८॥


क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः।
अंगुलींश्च नखान् पातु पद्महस्तोऽरिनाशनः॥९॥


सर्वांगानि मयूरेशो विश्वव्यापी सदाऽवतु।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु॥१०॥


आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु।
प्राच्यां रक्षतु बुद्धीशः आग्नेयां सिद्धिदायकः॥११॥


दक्षिणस्यामुमापुत्रो नैरृत्यां  तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताव्याद्वायव्यां गजकर्णकः॥१२॥


कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत्॥१३॥


राक्षसासुरवेतालग्रहभूतपिशाचतः  ।
पाशाङ्कुशधरः पातु रजस्सत्वतमःस्मृतिम् ॥१४॥


ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम्।
वपुर्धनं च धान्यं च गृहदारान् सुतान् सखीन्  ॥१५॥


सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजाविकं पातु गजाश्वान् विकटोऽवतु॥१६॥


भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः।
न भयं जायते तस्य  यक्षरक्षपिशाचतः ॥१७॥


त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत्।
यात्राकाले पठेद्यस्तु  निर्विघ्नेन फलं लभेत् ॥१८॥


युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
मारणोच्चाटनाकर्षस्तंभमोहनकर्मणि  ॥१९॥
 

सप्तवारं जपेदेतद्दिनानामेकविंशतिम्।
तत्तत्फलमवाप्नोति साध्यको नात्रसंशयः ॥२०॥


एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञावध्यश्च मोचयेत् ॥२१॥


राजदर्शनवेलायां पठेदेतत् त्रिवारतः।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥२२॥

Thursday, July 24, 2014

Chidambareswara Stotram

कृपा समुद्रं सुमुखं त्रिनेत्रम्
जटाधरम् पार्वती वाम भागम्
सदा शिवं रुद्रम् अनन्त रूपम्
चिदम्बरेशम् हृदि भावयामि ।।१।।

वाचामतीतम् फणी भूषणाङगम्
गणेश तातम् धनदस्य मित्रम्
कन्दर्प नाशम् कमलोत्पलाक्षम्
चिदम्बरेशम् हृदि भावयामि ।।२।।

रमेश वन्द्यम् रजताद्रिनाथम्
श्री वामदेवम् भव दु:ख नाशम्
रक्षाकरम् राक्षस पीडीतानाम्
चिदम्बरेशम् हृदि भावयामि ।।३।।

देवादिदेवं जगदेकनाथम्
देवेश  वन्द्यम् शशि गण्ड चूडम्
गौरी समेतम् कृत विघ्न दक्षं
चिदम्बरेशम् हृदि भावयामि ।।४।।

वेदान्तवेद्यम् सुरवैरिविघ्नम्
शुभप्रदम् भक्तिमदन्तराणाम्
कालान्तकम् श्रीकरुणाकटाक्षम्
चिदम्बरेशम् हृदि भावयामि ।।५।। 

हेमाद्रिचापम् त्रिगुणात्मभावम्
गुहात्मजम् व्याघ्रपुरीशमाद्यं
श्मशानवासम् वृषवाहनस्थम्
चिदम्बरेशम् हृदि भावयामि ।।६।।


आध्यन्त शून्यम् त्रिपुरारिमीशम्
नन्दीशमुख्यस्तुतवैभवाढ्यम्
समस्त देवै: परिपूजिताङ्घ्रिम्
 चिदम्बरेशम् हृदि भावयामि ।।७।।
 
तमेव भान्तम् ह्यनुभाति सर्वम्
अनेकरूपं परमार्थमेकम्
पिनाकपाणिम् भवनाशहेतुम्
चिदम्बरेशम् हृदि भावयामि ।।८।।

विश्वेश्वरं नित्यमनन्त माद्यम्
त्रिलोचनम् चन्द्र कलावतंसं
पतिं पशूनाम् हृदि सन्निविष्टं
चिदम्बरेशम् हृदि भावयामि ।।९।।     

विश्वाधिकम् विष्णुमुखैरूपास्यं
त्रिलोचनम् पञ्चमुखं प्रसन्नम्
उमापतिं पापहरम् प्रशान्तं
चिदम्बरेशम् हृदि भावयामि ।।१०।।

कर्पूरगात्रं कमनीयनेत्रं
कंसारिमित्रं कमलेन्दुवक्त्रम्
कन्दर्पगात्रं कमलेशमित्रं
चिदम्बरेशम् हृदि भावयामि ॥ ११ ॥

विशालनेत्रं परिपूर्णगात्रं
गौरी कलत्रं हरिदम्बरेशम्
कुबेरमित्रं जगतः पवित्रं
चिदम्बरेशम् हृदि भावयामि ॥ १२ ॥

कल्याणमूर्तिं कनकाद्रिचापं
कान्ता समाक्रान्त निजार्द्धदेहम्
कपर्दिनं कामरिपुं पुरारिं
चिदम्बरेशम् हृदि भावयामि ॥ १३ ॥

कल्पान्त कालाहितचण्डनृत्तं
समस्त वेदान्त वचोनि गूढम्
अयुग्मनेत्रं गिरिजासहायं
चिदम्बरेशम् हृदि भावयामि ॥ १४ ॥

दिगंबरं शङ्खसिताल्पहासं
कपालिनं शूलिनम् अप्रमेयम्
नागात्मजम् वक्त्रपयोज सूर्यं
चिदम्बरेशम् हृदि भावयामि ॥ १५ ॥

सदाशिवं सत्पुरुषैर नेकैः
सदार्चितं सामशिरस्सुगीतम्
वैय्याघ्रचर्मांबरमुग्रमीशं
चिदम्बरेशम् हृदि भावयामि ॥ १६ ॥

चिदम्बरस्य स्तवनं पठेद्य:
प्रदोषकालेषु पुमान् स धन्यः ।
भोगना शेषाननुभूय भूयः
सायुज्यमप्येति चिदम्बरस्य ॥ १७ ॥




 

Ganesh Stotras.

वक्रतुंड महाकाय सूर्यकोटी समप्रभ
निर्विघ्नम् कुरुमे देव सर्व कार्येषु सर्वदा ।।१।।

गजाननं भूत गणाधि सेवितं
कपिथ्थ जम्बू फल सार भक्षितम्
उमासुतम् शोक विनाश कारणम्
नमामि विघ्नेशवर पाद पंकजम् ।।२।।

मूषिक वाहन मोदक हस्ता
चामर कर्ण विलंबित सूत्र
वामन रूप महेश्वर पुत्र
विघ्न विनायक पाद नमस्ते ।।३।।

प्रकाश स्वरूपं नमो वायु रूपं
लिकारादि हेतुमं कलाधार भूतम्
अनेक क्रिया योग शक्ति स्वरूपं
सदाविश्वरूपं गणेशम् नमामी ।।४।। 

Tuesday, July 1, 2014

Devi Stuti

नमो देव्यै महादेव्यै शिवायै सततं नम:
नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम ।।

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नम:
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम: ।।

कल्याण्यै प्रणतां वृध्द्यै सिद्ध्यै कुर्मो नमो नम:
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नम: ।।

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम: ।।

 अति सौम्याति-रौद्रायै नतास्तस्यै नमो नम:
नमो जगत्प्रतिष्ठायै देव्यै कृत्य नमो नम: ।।

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु चेतनेत्यभिधीयते
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषुच्छायारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु जातिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु वृत्तिरूपेण  संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु दयारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु मातृरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

इन्द्रियाणा-मधिप्ठात्री भूतानां चाखिलेषु या
भूतेषु सततं तस्यै वियाप्तिदेव्यै नमो नम:

चितिरूपेण या कृत्स्न-मेतद्-व्याप्य स्थिरता जगत्
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

स्तुता सुरै: पूर्वमभीष्ट-संश्रयात्तथा सुरेन्द्रेण दिनेषु सेविका
करोतु सा न: शुभहेतुरीश्र्वरी शुभानि भद्राण्यभिहन्तु चापद:।।

या साम्प्रतं चोध्दत-दैत्य-तापितैरस्माभिरीशा च सुरैर्नमस्यते
या च स्मृता तत्क्षणमेव हन्ति न:सर्वापदो भक्ति-विनम्र-मूर्तिभि:।।


 

Sunday, June 29, 2014

Saundarya Lahari

शिव : शक्तया युक्तो यदि भवति शक्त: प्रभवितुं
न चे देवं देवो न खलु कुशल: स्पन्दितु-मपि ।
अतस्त्वा-माराध्यां हरि-हर-विरिञ्चिादिभि-रपि
प्रणन्तुं स्तोतुं वा कथ-मकृतपुण्य: प्रभवति़ ।।१।।

Shiva is endowed with power to create the universe, only because He is untied with Shakti. Without Shakti, He is not capable of even movement. So only those who have accumulated great merits are fortunate enough to praise Her, The Mother Divine, who is adored by Brahma, Vishnu and Shiva.


तनीयांसं पांसुं तव चरण-पङ्केरुह-भवं
विरिंचि संचिन्वन विरचयति लोका-नविकलम्।
वहत्येनं शौरि: कथमपि सहस्त्रेण शिरसां
हर: संक्षुद्यैनं भजती भसितोद् धूलन-विधिम् ।।२।।

Brahma creates this great and limitless universe with a minute particle of dust gathered from your Lotus Feet without any imperfection, Vishnu as Adisesha supports this universe (created out of the minute particle of dust) with His thousand hoods, and Hara destroys it during dissolution by crushing it, and rubs the ash all over his body.


अविद्याना-मन्त-स्तिमिर-मिहिर-द्विप-नगरी
जडानां चैतन्य-स्तबक-मकरन्द-स्त्रुतिझरी
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ।।३।।

त्वदन्य: पाणिभ्याम् अभय-वरदो दैवतगण:
त्वमेका नैवासि प्रकटित वराभीत्यभिनया
भयात् त्रातुम् दातुम् फल-मपि च वाञ्छा-समधिकं
शरण्ये लोकानाम् तव हि चरणावेव निपुणौ ।।४।।

O Mother! All Deities other than you bestow boons and give shelter from fear by the pose of their hands. You alone are not given to such external demonstrations, for Your feet themselves are capable of sheltering devotees from the fear of Samsara and give them much more than what they pray for.

हरिस्त्वामाराध्य प्रणत जन सौभाग्य जननीं
पुरा नारी भूत्वा पुर-रिपुमपि क्षोभ-मनयत्
स्मरोपित्वां नत्वा रति-नयन-लेह्येन वपुषा
मुनीना-मप्यन्त: प्रभवति़ हि मोहाय महताम् ।।५।।

You are the bestower of prosperity on all your devotees who bow down to You. Hari who adores you, assumed the form of a charming female (Mohini) and stirred the waves of passion in the heart of the ascetic Shiva. The God of Love, who is your devotee, rattles the mind and rouses the passion of even the great sages.

धनु: पौष्पं मौर्वीं मधुकरमयी पञ्च विशिखा:
वसन्त: सामन्तो मलयमरु-दायोधन-रथ:
तथाप्येक: सर्वं हिमगिरिसुते कामपि कृपां
अपांगात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ।।६।।

क्वणत्कांची-दामा करिकलभ-कुंभ-स्तन-नता
परीक्षण मध्ये परिणत-शरच्चन्द्र-वदना
धनुर्बाणान् पाशं सृणिमपि दधाना करतलै:
पुरस्ता-दास्तां न: पुरमथितु-राहो-पुरुषिका ।।७।।

May the consort of Lord Shiva, Tripurasundari, give us the divine vision-The Mother with her slender waist girdled with jingling bells, with her frame slightly bent by the weight of her breasts, that bulge like the frontal globes of the forehead of a young elephant, beautiful face like a full moon, wielding in her hands a bow of sugarcane and arrows, a noose and a goad.

सुधासिन्धोर्मध्ये सुरविटपि वाटी परिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणि गुहे
शिवाकारे मञ्चे परमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्या: कतिचन चिदानन्द लहरीम् ।।८।।

महीं मूला धारे कमपि मणीपूरे हुतवहं
स्थिति स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि
मनोपि भ्रुमध्ये सकलमपि भित्वा कुलपथं
सहस्त्रारे पद्मे सह रहसि पत्या विहरसे ।।९।।

सुधाधारासारै श्र्चरणयुगलान्तर्विगलितै:
प्रपंचं सिञ्चन्ती पुनरपि रसाम्नायमहस:
अवाप्य स्वां भूमिं भुजगनिभमध्युष्ट वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ।।१०।।

चतुर्भि: श्रीकण्ठै: शिवयुवतिभि: पञ्चभिरपि
प्रभिन्नाभि: शंभोर्नवभिरपि मूलप्रकृतिभि:
चतुश्र्चत्वारिंशद् वसुदलकलाश्रत्रिवलय
त्रिरेखाभि: सार्धं तव शरणकोणा: परिणता: ।।११।।

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चि प्रभृतय:
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिश सायुज्य पदवीम् ।।१२।।

नरं वर्षीयांसं नयनविरसं नर्मंसु जडं
तवापांगालोके पतितमनुधावन्ति शतशः:
गलद्वेणीबन्धा: कुचकलशविस्त्रस्त सिचया
हटात् त्रुटत्यत्काञ्चयो विगलितदुकूला युवतय: ।।१३।।

क्षितौ षट्पञ्चाशद्-द्विसमधिक पञ्चाशदुदके
हुताशे द्वाषष्टि-श्र्चतुरधिक-पञ्चाश-दनिले
दिवि द्वि:षट्त्रिंशन्-मनसि च चतु:षष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादांबुजयुगम् ।।१४।।

शरज्जयोत्स्ना-शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक कराम्
सकृन्न त्वां नत्वा कथमिव सतां सन्निदधते
मधु क्षीर द्राक्षा मधुरि मधुरीणा: ।।१५।।

कवीन्द्राणां चेत: कमल वन बालातप रुचिं
भजन्ते ये सन्त: कतिचित् अरुणामेव भवतीम्
विरिञ्चि प्रेयस्या: तरुणतर श्रृङ्गार लहरी
गभीराभि: वाग्भि: विदधति सतां रञ्जन मामी ।।१६।।

सवित्रिभिर्वाचां शशि मणि शिला भङ्ग रुचिभि:
वशिन्याद्याभि स्त्वां सह जननी संचिन्तयति य:
स कर्ता काव्यानाम् भवति महतां भङ्गिरुचिभि:
वचोभि र्वाग्देवी वदन कमलामोद मधुरै: ।।१७।।

तनुच्छायाभिस्ते तरुण तरणि श्रीसरणिभि:
दिवं सर्वा मुर्वी मरुणिमनि मग्नां स्मरति य:
भवन्त्यस्य त्रस्यद्वनहरिण शालीन नयना:

सहोर्वश्या वेश्या: कति कति न गीर्वाण गणिका: ।।१८।।

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तधदो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्
स सद्य संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ।।१९।।

किरन्ति मङ्गेभय: किरण निकुरुम्बामृतरसं
हृदि त्वां माधत्ते हिमकरशिला मूर्तिमिव य:
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधार सिरया ।।२०।।

तटिल्लेखातन्वीं तपन शशि वैश्वानर मयीं
निषण्णाम् षण्णा मप्युपरि कमलानाम् तव कलाम
महापद्माटव्याम् मृदित मल मायेन मनसा
महान्त: पशयन्त: दधति परमानन्द लहरीम् ।।२१।।

भवानी त्वम् दासे मयि वितर दृष्टिम् सकरुणाम्
इति स्तोतुम् वाञ्छन् कथयति भवानी त्वमिति य:
तदैव त्वम् तस्मै दिशसि निज सायुज्य पदवीं
मुकुंद ब्रह्मेन्द्र स्फुट मकुट नीराजित पदाम् ।।२२।।

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शंभो: अपरमपि शङ्के हृतमभूत
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल शशिचूडालमकुटम् ।।२३।।

जगत्सूते धाता हरिरवति रुद्र: क्षपयते
तिरस्कुर्वन्नेतत् स्वमपि वपुरीशस्तिरयति
सदापूर्व: सर्वं तदिदं अनुगृह्णाति च शिव:
तवाज्ञां आलम्ब्य क्षणचलितयो: भ्रूलतिकयो: ।।२४।।

त्रयाणां देवानां त्रिगुण-जनितानामं तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता
तथा हि त्वत्पादोद्वहन मणिपीठस्य निकटते
सथिता ह्येते शश्वन्मुकुलित करोत्तंस मकुटा: ।।२५।।

विरिञ्चि पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजती धनदो याति निधनम्
वितन्द्री माहेन्द्री विततिरपि संमीलित दृश
महासंहारेस्मिन् विरति सित त्वत्पतिरसौ ।।२६।।

जपो जल्प:शिल्पं सकलमपि मुद्राविरचना
गति: प्रादक्षिण्य क्रमण मशनाद्याहुतिविधि:
प्रणाम: संवेश: सुखमखिलमात्मार्पण दृश
सपर्या पर्याय स्तव भवतु यन्मे विलसितम् ।।२७।।

सुधामप्यास्वाद्य प्रति भय जरा मृत्यु हरिणीं
विपद्यन्ते विश्व विधि शतमखाद्या दिविषद:
करालं यत् क्ष्वेलं कबलितवत: कालकलना
न शम्भोस्तन्मूलं तव जननी ताटङ्क महिमा ।।२८।।








 




















 



 

Saturday, June 28, 2014

Shri Rajarajeshwari Stotram

         श्री राजराजेश्वरी स्तोत्रम्

कल्याणा यत पूर्ण  चन्द्र वदनाम् प्राणेश्वरानन्दिनीम्  
पूर्णा पूर्णतराम् परेष महीशीम् पूर्णमृतास्वादिनीम्
संपूर्णाम् परमोत्तमांमृत कलाम् विध्यावतिम् भारतीम्
श्रीचक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।१।। 

एकारादि समस्त वर्ण विविधाकारैक चित्रूपीणीम्

चैतन्यात्मक चक्र राज निलयाम् चक्रांत संचारिणीम्
भावा भाव विभाविनीम् भव पराम् सद्भक्ति चिन्तामणीम्
श्रीचक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।२।।  

ईशा धृक् पर योग  बृंद विविताम् स्वानंद भूताम् पराम्

 पश्यन्तिं तनु मध्यमाम् विलसिनीम् श्री वैखरी रूपिणीम्
आत्मानात्म विचारिणीम् विवरगाम् विध्याम् त्रिबीजात्मिकाम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।३।।

लक्ष्यालक्ष्य निरीक्षणाम् निरुपमाम् रुद्राक्ष माला धराम्

त्र्यक्षार्थ कृति  दक्ष वंश कलिकाम् दीर्घाक्षी दीर्घ स्वराम्
भद्राम भद्र वर प्रदाम् भगवतीम् भद्रेश्वरीम् मुद्रीणीम् 
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।४।। 

ह्रीम्  बीजागत नाद बिंदु भरिताम् ओँकारनादात्मिकाम्

ब्रह्मानन्द घनोधरीम् गुणवतीम् ज्ञानेश्वरीम् ज्ञानदाम्
इच्छाज्ञान कृतीम् महीम् गतवतीम् गंधर्व संसेविताम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।५।।  
 
हर्षोन्मत्त सुवर्ण पात्र भरिताम् पीनोन्ताम् घोर्निताम्
 
हूंकार प्रिय  शब्द जाल निरताम् सारस्वतोल्लासिनीम्
सारासार विचार चारु चरिताम् वर्णाश्रमा कारिणीम्
 श्रीचक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।६।।    

सर्वेशांग विहारिणीम् सकरुणाम् सन्नाधिनीम् नादीनीम्

संयोग प्रिय रूपिणीम्  प्रियवतीम् प्रीताम् प्रतापोन्नताम्
सर्वांतर्गत शालिनीम्  शिव तनु संदीपिनीम् दीपिनीम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।७।।   

कर्मा कर्म विवर्जिताम् कुलवतीम्
कर्म प्रदां कौलिनीम्
कारुण्याम् भुवि सर्व काम निरताम् सिंधु  प्रियोल्लास्सिनीम्
पञ्च ब्रह्म सनातना सनगताम् गेयाम् सुयोगान्विताम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।८।।  

हस्त्युतकुम्भ निभस्तनद्वितयथ: पीन्नोन  तादानभान्  

हाराध्याभरणाम् नरेन्द्र विनुताम् श्रृंगार पीठालयाम्
योन्याकारक योनी मुद्रित कराम् नित्याम् नवार्णात्मिकाम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।९।।  

लक्ष्मी  लक्ष्ण पूर्ण  भक्त वरदाम् लीला विनोद स्थिताम् 

लाक्षारंजित पाद पद्म युगळाम् ब्रह्मेन्द्र संसेविताम्
लोका लोकित लोक काम जननीम् लोकाश्रयांकस्थिताम् 
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।१०।।  

ह्रींकाराश्रित शंकर प्रियतनुं श्री योग पीठेश्वरीम्

मांगल्यायुध पंकजाभ नयनाम् मांगल्य सिद्धि प्रदाम्
कारुण्येन विशेषितांग सुमहा लावण्य सं शोभिताम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।११।।

सर्वज्ञान कलावतीं सकरुणाम् सर्वेश्वरीम् सर्वगाम्

सत्याम् सर्वमयीं सहस्त्र दलजाम् सत्वार्णवोपस्थिताम्
संगा संग विवर्जिताम्  सुख करीम् बालार्क कोटी प्रभाम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।१२।।   

आधिक्षान्त सुवर्ण  बिंदु  सुतनुम् सर्वांग  संशोभिताम्

नानावर्ण  विचित्र  चित्र चरिताम् चातुर्य चिन्तामणीम्
चित्रानन्द विधायिनीम् सुचफलाम् कूटत्रया कारिणीम्
 श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।१३।।

लक्ष्मीशान विधीन्द्र चन्द्र मकुटाध्यश्टाङग पीठाश्रिताम्

सूर्यैंदुवग्निमयैक पीठ निलयाम् त्रिस्थाम त्रिकोणेश्वरीम्
गोप्त्त्रीम् गर्वीनिगर्विताम् ककनगाम् गंगा  गणेश प्रियाम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।१४।। 

ह्रीम् कूटत्रय रूपिणीम्  समयनीम् संसारिणीम् हंसिनीम्

वामाचार परायिणीम् सुकुलजाम् बीजावतीम् मुद्रिणीम्
कामाक्षिम् करुणार्द्र  चित्त सहिताम् श्रीं श्रीं त्रिमूर्त्रैंबिकाम्
श्री चक्र प्रिय  बिंदु  तर्पण  पराम् श्री राजराजेश्वरीम् ।।१५।। 

या विंध्या शिव केशवादि जननी  या वै जगन्मोहिनीं

या ब्रह्मादी पिपीली कान्त जगदानन्दायैक सन्धायिनी
या पञ्चप्रणवत्युरेप नलिनी  या चित्कला मालिनीं 
सा पायात् पर देवता भगवतीं  श्री राजराजेश्वरीम्।।१६।। 

This shloka in mp3 format is available in   www.astrojyoti.com/rajarajeswaristotram.htm